अमरकोशः


श्लोकः

प्रतीहारो द्वारपालद्वा:स्थद्वा:स्थितदर्शकाः । रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतीहार प्रतीहारः पुंलिङ्गः प्रतिहरणम् । घञ् कृत् अकारान्तः
2 द्वारपाल द्वारपालः पुंलिङ्गः द्वारं पालयति । अण् कृत् अकारान्तः
3 द्वाःस्थ द्वाःस्थः पुंलिङ्गः द्वारि तिष्ठति । कृत् अकारान्तः
4 द्वास्थित द्वास्थितः पुंलिङ्गः द्वारि तिष्ठति स्म । क्त कृत् अकारान्तः
5 दर्शक दर्शकः पुंलिङ्गः द्वारि तिष्ठति स्म । ण्वुल् कृत् अकारान्तः
6 रक्षिवर्ग रक्षिवर्गः पुंलिङ्गः रक्षिणां वर्गः ॥ णिनि कृत् अकारान्तः
7 अनीकस्थ अनीकस्थः पुंलिङ्गः अनीकेन, अनीके वा तिष्ठति । कृत् अकारान्तः
8 अध्यक्ष अध्यक्षः पुंलिङ्गः अधिगतोऽक्षं व्यवहारम् । तत्पुरुषः समासः अकारान्तः
9 अधिकृत अधिकृतः पुंलिङ्गः अधि अधिकमुपरि वा क्रियते स्म । क्त कृत् अकारान्तः