अध्यक्षः

सुधाव्याख्या

अथेति । अधिगतोऽक्षं व्यवहारम् । अत्यादयः-’ (वा० २.२.१८) इति समासः । यद्वा अध्यक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ‘अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षे त्वभिधेयवत्’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


अधि + अक्ष + सु - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (2.2.18) । वार्तिकम् ।
अधि + अक्ष - सुपो धातुप्रातिपदिकयोः 2.4.71
अध्यक्ष - इको यणचि 6.1.77
अध्यक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अध्यक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अध्यक्ष + रु - ससजुषो रुः 8.2.66
अध्यक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अध्यक्षः - खरवसानयोर्विसर्जनीयः 8.3.15