दर्शकः

सुधाव्याख्या

द्वारि तिष्ठति स्म । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘द्वाःस्थित:, दर्शकः’ इति व्यस्तं नाम । (‘द्वाःस्थितो वेत्रधारकः इति त्रिकाण्डशेषः) । ‘स्याद्दर्शको दर्शयिता प्रतीहारोऽपि दर्शकः’ इति रुद्रः । (द्वाःस्थितस्य दर्शकः इति) समस्तं नाम (इत्यन्ये) । ‘द्वारपो द्वाःस्थितादर्शी’ इति रभसः ॥