प्रतीहारः

सुधाव्याख्या

प्रेति । प्रतिहरणम् । घञ् (३.३.१८) । ‘उपसर्गस्य घञि’ (६.२.१२२) इति वा दीर्घः । प्रतीहारो जनवारणमस्त्यस्य । अर्शआद्यच् (५.२.१२७) । मुकुटस्तु-प्रतिराभिमुख्ये । राज्ञोऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । ‘ज्वलितिकसन्तेभ्यो णः’ (३.१.१४०) - इति व्याख्यत् । तन्न । हृञो ज्वलादावपाठात् । ज्वलादेराकृतिगणत्वाभावाच्च । ‘प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति’ इति विश्वमेदिन्यौ ॥