अमरकोशः


श्लोकः

कर्णीरथ: प्रवहणं डयनं च समं त्रयम् । क्लीबेऽना शकटोऽस्त्री स्याद् गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्णीरथ कर्णीरथः पुंलिङ्गः कर्णी चासौ रथश्च तत्पुरुषः समासः अकारान्तः
2 प्रवहण प्रवहणम् नपुंसकलिङ्गः प्रोह्यते । ल्युट् कृत् अकारान्तः
3 डयन डयनम् नपुंसकलिङ्गः डीयतेऽनेन ल्युट् कृत् अकारान्तः
4 अनस् अनः नपुंसकलिङ्गः अनिति चीत्करोति । असुन् उणादिः सकारान्तः
5 शकट शकटः पुंलिङ्गः, नपुंसकलिङ्गः शक्नोति भारं वोढुम् । अटन् उणादिः अकारान्तः
6 गन्त्री गन्त्री स्त्रीलिङ्गः गम्यतेऽनया । ष्ट्रन् उणादिः ईकारान्तः
7 कम्बलिवाह्यक कम्बलिवाह्यकम् नपुंसकलिङ्गः कम्बलः सास्नास्यास्ति । ण्यत् कृत् अकारान्तः