कर्णीरथः

सुधाव्याख्या

केति । कर्णसाध्या श्रवणक्रियोपचारात्कर्णः । कर्णोऽस्यास्ति । इनिः (५.२.११५) । कर्णी चासौ रथश्च शब्दमात्रेण रथः । न तु वस्तुतो रथः । यद्वा सामीप्यात्कर्णशब्देन स्कन्धो लक्ष्यते । कर्णः स्कन्धः । सोऽस्त्यस्य वाहकत्वेन । स्कन्धवाह्यः । स चासौ रथश्च । ‘अन्येषामपि-' (६.३.१३७) इति दीर्घः ॥


प्रक्रिया

धातुः -


कर्ण + सु + इनि - अत इनिठनौ 5.2.115
कर्ण + इनि - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्ण + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्ण् + इन् - यस्येति च 6.4.148
कर्णिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्णीन् + सु - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
कर्णीन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्णीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
कर्णी - नलोपः प्रातिपदिकान्तस्य 8.2.7
कर्णी + सु + रथ + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कर्णीरथ - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्णीरथ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्णीरथ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्णीरथ + रु - ससजुषो रुः 8.2.66
कर्णीरथ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्णीरथः - खरवसानयोर्विसर्जनीयः 8.3.15