कम्बलिवाह्यकम्

सुधाव्याख्या

कम्बलः सास्नास्यास्ति । इनिः (५.२.११५) । कम्बलिभिर्वृषैरुह्यते । ण्यत् (३.१.१२४) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


वहँ प्रापणे
वह्- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कम्बलि + वह् + ण्यत् - ऋहलोर्ण्यत्‌ 3.1.124
कम्बलि + वह् + य - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कम्बलि + वाह् + य - अत उपधायाः 7.2.116
कम्बलिवाह्य + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
कम्बलिवाह्यक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कम्बलिवाह्यक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कम्बलिवाह्यक + अम् - अतोऽम् 7.1.24
कम्बलिवाह्यकम् - अमि पूर्वः 6.1.107