डयनम्

सुधाव्याख्या

डीयतेऽनेन 'डीङ् । विहायसा गतौ’ (दि० आ० से०) । ल्युट् (३.३.११७) । 'हयनम्' इति पाठे ‘हय गतौ’ (भ्वा० प० से०) । ल्युट् । (३.३.११७) ॥