अमरकोशः


श्लोकः

रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः । अनुकर्षो दार्वध:स्थं प्रासङ्गो ना युगान्तरम् ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रथगुप्ति रथगुप्तिः स्त्रीलिङ्गः रथस्य गुप्तिरावरणम् ॥ तत्पुरुषः समासः इकारान्तः
2 वरूथ वरूथः पुंलिङ्गः व्रियते रथोऽनेन । ऊथन् उणादिः अकारान्तः
3 कूबर कूबरः पुंलिङ्गः कूवते । वरच् बाहुलकात् अकारान्तः
4 युगन्धर युगन्धरः पुंलिङ्गः युगं वोढृबन्धनकाष्ठं धारयति । खच् कृत् अकारान्तः
5 अनुकर्ष अनुकर्षः पुंलिङ्गः अनुकृष्यते । घञ् कृत् अकारान्तः
6 प्रासङ्ग प्रासङ्गः पुंलिङ्गः प्रसज्यते । घञ् कृत् अकारान्तः