प्रासङ्गः

सुधाव्याख्या

प्रेति । प्रसज्यते । ‘षञ्ज सङ्गे (भ्वा० प० अ०) । घञ् । (३.३.१९) । 'उपसर्गस्य घञि–’ (६.३.१२२) इति दीर्घः ॥ रथाद्यङ्गयुगादन्यद्युगं वृषभाणां दमनकाले यदासज्यते, तस्यैकम् । स्वामी तु (‘युगाद्युगः’ इति पाठमाश्रित्य) युगेनातति । युगाद्रथादिः । तस्य युगो ना – इत्याह । अन्ये तु-युगान्तरं यद्वध्यते । तस्य-इत्याहुः । ‘युगं द्वितीयं प्रासङ्गः इति कात्यः ।