युगन्धरः

सुधाव्याख्या

युगं वोढृबन्धनकाष्ठं धारयति । ‘संज्ञायां भृतॄवृजि -’ (३.२.४६) इति खच् । अरुर्द्विष-’ (६.३.६७) इति मुम् ॥


प्रक्रिया

धातुः -


युग + अम् + धृ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
युग + धृ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
युग + धर् + णिच् + अ - हेतुमति च 3.1.26
युग + धर् + इ + अ - सार्वधातुकार्धधातुकयोः 7.3.84
युग + धार् + इ + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
युग + धार् + इ + अ - अत उपधायाः 7.2.116
युग + धार् + अ - णेरनिटि 6.4.51
युग + धर् + अ - खचि ह्रस्वः 6.4.94
युग + मुम् + धर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
युग + म् + धर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
युगंधर - नश्चापदान्तस्य झलि 8.3.24
युगन्धर - अनुस्वारस्य ययि परसवर्णः 8.4.58
युगन्धर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
युगन्धर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युगन्धर + रु - ससजुषो रुः 8.2.66
युगन्धर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युगन्धरः - खरवसानयोर्विसर्जनीयः 8.3.15