अनुकर्षः

सुधाव्याख्या

अन्विति । अनुकृष्यते । ‘कृष विलेखने' (भ्वा० प० अ०) । घञ् (३.३.१९) । अनुकर्षो रथाधःस्थदारुण्यप्यनुकर्षणे’ (इति मेदिनी) । नान्तोऽप्ययम् ‘अनुकर्षा नाक्षतलदारु’ इति वोपालितात् ॥