अमरकोशः


श्लोकः

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् । पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चक्र चक्रम् नपुंसकलिङ्गः क्रियते गतिरनेन । कृत् अकारान्तः
2 रथाङ्ग रथाङ्गम् नपुंसकलिङ्गः रथस्याङ्गम् । तत्पुरुषः समासः अकारान्तः
3 नेमि नेमिः स्त्रीलिङ्गः नयति रथम् । मि उणादिः इकारान्तः
4 प्रधि प्रधिः पुंलिङ्गः प्रधीयतेऽनेन । कि कृत् इकारान्तः
5 पिण्डिका पिण्डिका स्त्रीलिङ्गः पिण्ड्यतेऽरा यस्याम् । घञ् कृत् आकारान्तः
6 नाभि नाभिः स्त्रीलिङ्गः नह्यन्तेऽरा अत्र । इञ् उणादिः इकारान्तः
7 अक्षाग्रकीलक अक्षाग्रकीलकः पुंलिङ्गः अकारान्तः
8 अणि अणिः पुंलिङ्गः, स्त्रीलिङ्गः अक्षस्य नाभिक्षेप्यस्यान्ते कीलके । इन् उणादिः इकारान्तः