नाभिः

सुधाव्याख्या

नह्यन्तेऽरा अत्र । ‘णह बन्धने’ (दि० उ० अ०) । ‘नहो भश्च' (उ० ४.१२६) इतीञ् हस्य भः । यद्वा नभ्यतेऽक्षेण । ‘णभ हिंसायाम्' (भ्वा० आ० से०) । ‘इञ(ण)जादिभ्यः’ (वा० ३.३.१०८) ‘नाभिर्मुख्यनृपे चक्रमध्यक्षत्त्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे’ (इति मेदिनी) ॥