पिण्डिका

सुधाव्याख्या

पीति । पिण्ड्यतेऽरा यस्याम् । ‘पिडि सङ्गाते’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । गौरादिः (४.१.४१) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


पिडिँ सङ्घाते
पिड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिन्ड् - इदितो नुम् धातोः 7.1.58
पिंड - नश्चापदान्तस्य झलि 8.3.24
पिण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पिण्ड् + घञ् - हलश्च 3.3.121
पिण्ड् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पिण्ड + ङीप् - षिद्गौरादिभ्यश्च 4.1.41
पिण्ड + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पिण्ड् + ई - यस्येति च 6.4.148
पिण्डी + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
पिण्डी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पिण्डिक - केऽणः 7.4.13
पिण्डिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पिण्डिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पिण्डिका - अकः सवर्णे दीर्घः 6.1.101
पिण्डिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिण्डिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिण्डिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68