चक्रम्

सुधाव्याख्या

चेति । क्रियते गतिरनेन । ‘घञर्थे कः’ (वा० ३.३.५८) । ‘कृञादीनां के’ (वा० ६.१.१२) इति द्वित्वम् । ‘चक्रः कोके पुमान्, क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः जलावर्तेःऽपि’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
कृ + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
कृ + कृ + क - कृञादीनां के (6.1.12) । वार्तिकम् ।
कृ + कृ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क + कृ + अ - उरत्‌ 7.4.66
च + कृ + अ - कुहोश्चुः 7.4.62
च + क्र् + अ - इको यणचि 6.1.77
चक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चक्र + अम् - अतोऽम् 7.1.24
चक्रम् - अमि पूर्वः 6.1.107