अणिः

सुधाव्याख्या

अक्षेति । अक्षस्य नाभिक्षेप्यस्यान्ते कीलके । अणति । ‘अण शब्दे’ (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘अणिराणिवदक्षाग्रकीले स्यादश्रिसीमयोः’ इति विश्वः । ‘अणिराणिदक्षा- ग्रकीलाभिसीमसु द्वयोः’ (इति मेदिनी) ॥