अमरकोशः


श्लोकः

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी । अजिनं चर्म कृत्ति: स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कमण्डलु कमण्डलुः पुंलिङ्गः, नपुंसकलिङ्गः कस्य प्रजापतेर्जलस्य वा मण्डः सारः । तत्पुरुषः समासः उकारान्तः
2 कुण्डी कुण्डी स्त्रीलिङ्गः उणादिः ईकारान्तः
3 वृषी वृषी स्त्रीलिङ्गः ब्रुवन्तः सीदन्त्यस्याम् । कृत् ईकारान्तः
4 अजिन अजिनम् नपुंसकलिङ्गः अजति । इनच् उणादिः अकारान्तः
5 चर्मन् चर्म नपुंसकलिङ्गः चर्यते, वा । मनिन् उणादिः नकारान्तः
6 कृत्ति कृत्तिः स्त्रीलिङ्गः कृत्यते । क्तिन् स्त्रीप्रत्ययः इकारान्तः
7 भैक्ष भैक्षम् नपुंसकलिङ्गः भिक्ष्यते । अण् तद्धितः अकारान्तः