वृषी

सुधाव्याख्या

व्रेति । ब्रुवन्तः सीदन्त्यस्याम् । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । पृषोदरादिः (६.३.१०९) । वर्षति सुखं वा । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘इगुपध-’ (२.१.१३५) इति दन्त्यान्ते कः । गौरादिः (४.१.४१) मूर्धन्यान्तः । ‘अतसी वृसी मांसी’ इत्यन्ते चन्द्रगोमिदर्शनाद्दन्यान्तापि ॥