कुण्डी

सुधाव्याख्या

घञ् कुणति । ‘कुण शब्दोपकरणयोः’ (तु० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । ‘जानपद-’ (४.१४२) इति ङीष् । ‘कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ, जारात्पतिवत्नीसुते पुमान् । पिठरे तु न ना’ (इति मेदिनी)॥सुतायां तु जातिलक्षणो ङीष् ॥