कमण्डलुः

सुधाव्याख्या

अस्त्रीति । कस्य प्रजापतेर्जलस्य वा मण्डः सारः । तं लाति लभते वामितद्र्वादिः (वा० ३.२.१८०) । मण्डनम् । ‘मडि भूषायाम्’ (भ्वा० प० से०) ॥


प्रक्रिया

धातुः -


ला आदाने
कमण्ड + अम् + ला + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
कमण्ड + ला + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
कमण्ड + ला + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
कमण्ड + ल् + उ - टेः 6.4.143
कमण्डलु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कमण्डलु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कमण्डलु + रु - ससजुषो रुः 8.2.66
कमण्डलु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कमण्डलुः - खरवसानयोर्विसर्जनीयः 8.3.15