अमरकोशः


श्लोकः

कबरी केशवेशोऽथ धम्मिल्ल: संयता: कचा: । शिखा चूडा केशपाशी व्रतिनस्तु जटा सटा ॥ ९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कबरी कबरी स्त्रीलिङ्गः कूयते । अरन् उणादिः ईकारान्तः
2 केशवेश केशवेशः पुंलिङ्गः केशानां वेशो मार्जनाबन्धविशेषः ॥ तत्पुरुषः समासः अकारान्तः
3 धम्मिल्ल धम्मिल्लः पुंलिङ्गः धम् चासौ मिल्लश्च । विच् कृत् अकारान्तः
4 शिखा शिखा स्त्रीलिङ्गः शेते । उणादिः आकारान्तः
5 चूडा चूडा स्त्रीलिङ्गः चुड्यते । अङ् कृत् आकारान्तः
6 केशपाशी केशपाशी स्त्रीलिङ्गः केशानां पाशः । तत्पुरुषः समासः ईकारान्तः
7 जटा जटा स्त्रीलिङ्गः जायते, जन्यते वा । टन् उणादिः आकारान्तः
8 सटा सटा स्त्रीलिङ्गः सटति । अच् कृत् आकारान्तः