जटा

सुधाव्याख्या

व्रेति । व्रतिनः शिखा । जायते, जन्यते वा । ‘जनेष्टन् लोपश्च (उ० ३.३०) । यद्वा जटति । ‘जट सङ्गाते’ (भ्वा० प० से०) अच् (३.१.१३४) । ‘जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी’ (इति मेदिनी) ॥