कबरी

सुधाव्याख्या

केति । कूयते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘कोररन्’ (उ० ४.१५५) । ‘जानपद-’ (४.१.४२) इति ङीष् ।– कं शिरो वृणोत्याच्छादयति । ‘-क्रवर-’ (४.१.४२) इति निर्देशादणं बाधित्वाच् (३.१.१३४) इति मुकुटः ।– कृष्णवर्णा कं वृणोति वा इति स्वामी चोक्तसूत्रादर्शनमूलकौ । ‘कवरं लवणाम्लयोः । कवरी केशविन्यासशाकयोः’ (इति हैमः) ॥


प्रक्रिया

धातुः -


कुङ् शब्दे
कु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कु + अरन् - कोररन् (४.१५५) । उणादिसूत्रम् ।
कु + अर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
को + अर - सार्वधातुकार्धधातुकयोः 7.3.84
कव् + अर - एचोऽयवायावः 6.1.78
कवर + ङीष् - जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु 4.1.42
कवर + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कवर् + ई - यस्येति च 6.4.148
कवरी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कवरी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कवरी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68