धम्मिल्लः

सुधाव्याख्या

अथेति । धमति । ‘धम ध्वाने’ सौत्रः । विच् (३.२.७५) । मिलति । ‘मिल सङ्गमे’ (तु० प० से०) । बाहुलकाल्लक् । धम् चासौ मिल्लश्च । ‘मो नो धातोः’ (८.२.६४) इति सौत्रेषु न भवति ॥


प्रक्रिया

धातुः -


धमँ ध्वाने
धम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धम् + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
धम् + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धम् - वेरपृक्तस्य 6.1.67
मिलँ सङ्गमे
मिल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मिल् + लक् - बाहुलकात् ।
मिल् + ल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
धम् + सु मिल्ल + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
धम्मिल्ल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धम्मिल्ल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धम्मिल्ल + रु - ससजुषो रुः 8.2.66
धम्मिल्ल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धम्मिल्लः - खरवसानयोर्विसर्जनीयः 8.3.15