अमरकोशः


श्लोकः

समा: स्नुषाजनीवध्व: चिरण्टी तु सुवासिनी । इच्छावती कामुका स्याद् वृषस्यन्ती तु कामुकी ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्नुषा स्नुषा स्त्रीलिङ्गः स्नौति । उणादिः आकारान्तः
2 जनी जनी स्त्रीलिङ्गः जायते वंशोऽस्याम् । इण् उणादिः ईकारान्तः
3 वधू वधूः स्त्रीलिङ्गः वहति । उणादिः ऊकारान्तः
4 चिरण्टी चिरण्टी स्त्रीलिङ्गः चिरेति । अच् कृत् ईकारान्तः
5 सुवासिनी सुवासिनी स्त्रीलिङ्गः सु अतीव वसति पितृगृहे तच्छीला । णिनि कृत् ईकारान्तः
6 इच्छावती इच्छावती स्त्रीलिङ्गः इच्छास्त्यस्याः । मतुप् तद्धितः ईकारान्तः
7 कामुका कामुका स्त्रीलिङ्गः कामयते । उकञ् कृत् आकारान्तः
8 वृषस्यन्ती वृषस्यन्ती स्त्रीलिङ्गः वृषं नरं शुक्रलं वेच्छत्यात्मनः । क्यच् कृत् ईकारान्तः
9 कामुकी कामुकी स्त्रीलिङ्गः कामयते । ङीष् स्त्रीप्रत्ययः ईकारान्तः