वृषेति । ‘वृषो नरो वृषः कालः’ इत्यनेकार्थमञ्जरी । वृषं नरं शुक्रलं वेच्छत्यात्मनः । ‘सुप आत्मनः क्यच्’ (३.१.८) । ‘अश्वक्षीर-’ (७.१.५१) इत्यत्र ‘अश्ववृषयोर्मैथुनेच्छायाम्’ इति वचनादसुक् । लटः शता (३.२.१२४) । ‘उगितश्च’ (१.४.६) इति ङीप् । ‘आच्छीनद्योर्नुम्’ (७.१.८०) ॥