चिरण्टी

सुधाव्याख्या

चिरेति । चिरेणाटति पितृगेहाद्भर्तृगेहम् । अच् (३.१.१४) । पृषोदरादिः (६.३.१०९) । ‘वयस्यचरमे’ (वा० ४.१.२०) इति ङीप् । चरति । बाहुलकादण्टप्रत्यये ‘चरण्टी’ इत्येके । चिरिणोति । चिरण्टी ।—इति स्वामी । तत्र ‘चिरि हिंसायाम्’ (स्वा० प० से०) इति धातुः; पृषोदरादिः । (चिरिण्टी तु सुवासिन्यां स्याद्द्वितीयवयः स्त्रियाम्’ (इति मेदिनी) ॥