जनी

सुधाव्याख्या

जायते वंशोऽस्याम् । ‘जनिघसिभ्यामिण्’ (उ० ४.१३०) । ‘जनिवध्योश्च' (७.३.३५) इति न वृद्धिः । ‘कृदि-’ (ग० ४.१.४५) इति वा ङीष् । ‘जनो लोके जगद्भदे पृथग्जने । जनी स्नुषावनितयोः’ इति हैमः । ‘जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि’ (इति मेदिनी) ॥