सुवासिनी

सुधाव्याख्या

सु अतीव वसति पितृगृहे तच्छीला । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः । ‘स्ववासिनी’ इत्यपि पाठः । स्वेषु पित्रादिषु वस्तुं शीलमस्याः । ‘स्ववासिन्यां चिरिण्टी स्याद्द्वितीयवयसि स्त्रियाम्’ इति रुद्रः ॥