अमरकोशः


श्लोकः

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठ: प्रदेशिनी । मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्गुली अङ्गुली स्त्रीलिङ्गः अङ्गति । उलि उणादिः ईकारान्तः
2 करशाखा करशाखा स्त्रीलिङ्गः करस्य शाखा इव ॥ तत्पुरुषः समासः आकारान्तः
3 अङ्गुष्ठ अङ्गुष्ठः पुंलिङ्गः अङ्गुशब्दोऽङ्गवाची । कृत् अकारान्तः
4 प्रदेशिनी प्रदेशिनी स्त्रीलिङ्गः तर्जन्युक्तापि यथासंख्याय पुनरुक्ता ॥ ल्युट् कृत् ईकारान्तः
5 मध्यमा मध्यमा स्त्रीलिङ्गः मध्यभवा । तद्धितः आकारान्तः
6 अनामिका अनामिका स्त्रीलिङ्गः न नाम ग्रहणयोग्यमस्याः ब्रह्मणोऽनया शिरश्छेदनात् । बहुव्रीहिः समासः आकारान्तः
7 कनिष्ठा कनिष्ठा स्त्रीलिङ्गः अत्यल्पा । इष्ठन् तद्धितः आकारान्तः