अनामिका

सुधाव्याख्या

न नाम ग्रहणयोग्यमस्याः ब्रह्मणोऽनया शिरश्छेदनात् । अत एवास्यां पवित्रीक्रियते ॥


प्रक्रिया

धातुः -


नञ् + नाम + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + नाम - सुपो धातुप्रातिपदिकयोः 2.4.71
न + नाम - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + नाम - नलोपो नञः 6.3.73
अनाम + कप् - शेषाद्विभाषा 5.4.154
अनाम + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अनामक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अनामक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अनामका - अकः सवर्णे दीर्घः 6.1.101
अनामिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अनामिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनामिका + स् - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
अनामिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68