कनिष्ठा

सुधाव्याख्या

अत्यल्पा । ‘अतिशायने-’ (५.३.५५) इतीष्ठन् । ‘युवाल्पयोः कन्-’ (५.३.६४) ‘कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ’ इति हैमः ॥