अङ्गुष्ठः

सुधाव्याख्या

पुंसीति । अङ्गुशब्दोऽङ्गवाची । अङ्गौ पाणौ तिष्ठति । ‘सुपि-’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64
अङ्गु + ङि + स्था + क - सुपि स्थः 3.2.4, उपपदमतिङ् 2.2.19
अङ्गु + स्था + क - सुपो धातुप्रातिपदिकयोः 2.4.71
अङ्गु + स्था + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अङ्गु + स्थ् + अ - आतो लोप इटि च 6.4.64
अङ्गुष्ठ - अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः 8.3.97, ष्टुना ष्टुः 8.4.41
अङ्गुष्ठ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्गुष्ठ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गुष्ठ + रु - ससजुषो रुः 8.2.66
अङ्गुष्ठ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गुष्ठः - खरवसानयोर्विसर्जनीयः 8.3.15