अङ्गुली

सुधाव्याख्या

अङ्ग्विति । अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । ‘ऋतन्यञ्जि-’ (उ० ४.२) इत्युलिः । अङ्गुं पाणिपादमवयवं लाति । बाहुलकाड्डिर्वा । ‘अङ्गुलिः करशाखायां कर्णिकायां गजस्य च’ इति हैमविश्वप्रकाशौ । ‘बालमूललध्वङ्गुलीनां वा लो रः’ (वा० ८.२.१८) । (अङ्गुरिः) । ‘अङ्गुलस्तु यवो मतः’ इत्यमरदत्तः । ‘अङ्गुलो ना यवमानम्’ इति वाचस्पतिः । तत्राङ्गेर्बाहुलकादुलः ॥


प्रक्रिया

धातुः -


अगिँ गतौ
अग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्ग् - इदितो नुम् धातोः 7.1.58
अंग् - नश्चापदान्तस्य झलि 8.3.24
अङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
अङ्ग् + उलि - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
अङ्गुलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्गुलि + ङीष् - कृदिकारादक्तिनः (4.1.45) । वार्तिकम् ।
अङ्गुलि + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अङ्गुल् + ई - यस्येति च 6.4.148
अङ्गुली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्गुली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गुली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68