अमरकोशः


श्लोकः

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् । क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वक्त्र वक्त्रम् नपुंसकलिङ्गः उच्यतेऽनेन । त्र उणादिः अकारान्तः
2 आस्य आस्यम् नपुंसकलिङ्गः आस्यन्दते अम्लादिना प्रस्रवति । कृत् अकारान्तः
3 वदन वदनम् नपुंसकलिङ्गः वदन्त्यनेन ल्युट् कृत् अकारान्तः
4 तुण्ड तुण्डम् नपुंसकलिङ्गः तुण्डति । अच् कृत् अकारान्तः
5 आनन आननम् नपुंसकलिङ्गः आनन्त्यनेन । ल्युट् कृत् अकारान्तः
6 लपन लपनम् नपुंसकलिङ्गः लप्यतेऽनेन । ल्युट् कृत् अकारान्तः
7 मुख मुखम् नपुंसकलिङ्गः खन्यते । अच् उणादिः अकारान्तः
8 घ्राण घ्राणम् नपुंसकलिङ्गः घ्रायतेऽनेन । ल्युट् कृत् अकारान्तः
9 गन्धवहा गन्धवहा स्त्रीलिङ्गः गन्धस्य वहा । तत्पुरुषः समासः आकारान्तः
10 घोणा घोणा स्त्रीलिङ्गः घोणति । अच् कृत् आकारान्तः
11 नासा नासा स्त्रीलिङ्गः नासते । अच् कृत् आकारान्तः
12 नासिका नासिका स्त्रीलिङ्गः ण्वुल् कृत् आकारान्तः