वक्त्रम्

सुधाव्याख्या

वेति । उच्यतेऽनेन । ‘वच परिभाषणे’ (अ० प० अ०) । ब्रूञो वचिः (२.४.५३) वा । ‘गुधृवीपचिवचि-’ (उ० ४.१६७) इति त्रः । ‘वक्त्रमास्ये छन्दसि च’ इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


वचँ परिभाषणे
वच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वच् + त्र - गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः (४.१६७) । उणादिसूत्रम् ।
वक् + त्र - चोः कुः 8.2.30
वक्त्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वक्त्र + अम् - अतोऽम् 7.1.24
वक्त्रम् - अमि पूर्वः 6.1.107