आस्यम्

सुधाव्याख्या

आस्यन्दते अम्लादिना प्रस्रवति । आस्यन्द्यते वान्नादिना द्रवीक्रियते । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा अस्यन्ते वर्णा येन । अस्यते वास्मिन् ग्रासः । ‘असु क्षेपणे’ (दि० प० से०) ‘कृत्यल्युटः-’ (३.३.११३) इति ण्यत् । ‘मुखं मुखान्तरालं च द्वयमास्यमितीरितम्’ इति शाश्वतः । ‘आस्यं मुखे च तन्मध्ये तद्रवे च स्त्रियां स्थितौ’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


स्यन्दूँ प्रस्रवणे
स्यन्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + स्यन्द् + ड - अन्येभ्योऽपि दृश्यते (३.२.१०१) । वार्तिकम् ।
आ + स्यन्द् + ड - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + स्यन्द् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
आ + स्य् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
आस्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आस्य + अम् - अतोऽम् 7.1.24
आस्यम् - अमि पूर्वः 6.1.107