गन्धवहा

सुधाव्याख्या

वहति ‘वह प्रापणे’ (भ्वा० उ० अ०) । अच् (३.१.१३४) । गन्धस्य वहा । स्याद्गन्धवहा नासायां पुंलिङ्गे मातरिश्वनि (इति मेदिनी) ॥


प्रक्रिया

धातुः -


वहँ प्रापणे
वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वह् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वह् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वह + टाप् - अजाद्यतष्टाप्‌ 4.1.4
वह + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वहा - अकः सवर्णे दीर्घः 6.1.101
वहा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वहा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वहा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
गन्ध + ङस् + वहा + सु - षष्ठी 2.2.8
गन्ध + वहा - सुपो धातुप्रातिपदिकयोः 2.4.71
गन्धवहा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गन्धवहा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गन्धवहा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68