मुखम्

सुधाव्याख्या

खन्यते । अनेन वा । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘डित् खनेर्मुट् चोदात्तः’ (उ० ५.२०) इत्यच् स च डित् धातोर्मुडागमः । ‘प्राक् खनो मुडुदात्तश्च ततोऽच्च प्रत्ययो भवेत् । प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः’ इति निरुक्तम् । ‘मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः’ इति हैमः ॥