अमरकोशः


श्लोकः

सक्थि क्लीबे पुमानूरु: तत्संधिः पुंसि वङ्क्षण: । गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सक्थि सक्थिम् नपुंसकलिङ्गः सजति, सज्यते, वा । क्थिन् उणादिः इकारान्तः
2 ऊरू ऊरू पुंलिङ्गः अर्यतेऽनेन । कु उणादिः ऊकारान्तः
3 वङ्क्षण वङ्क्षणः पुंलिङ्गः वाङ्क्षति, वाङ्क्ष्यते, वा । ल्युट् कृत् अकारान्तः
4 गुध गुधम् नपुंसकलिङ्गः गोदते । कृत् अकारान्तः
5 अपान अपानम् नपुंसकलिङ्गः अपानित्यनेन । घञ् कृत् अकारान्तः
6 पायु पायुः पुंलिङ्गः पाति मलनिःसारणेन । उण् उणादिः उकारान्तः
7 वस्ति वस्तिः पुंलिङ्गः, स्त्रीलिङ्गः वसति मूत्रमत्र । ति उणादिः इकारान्तः