ऊरू

सुधाव्याख्या

अर्यतेऽनेन । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘अर्तेरुरच’ इति कुः, ऊरोदेशश्च । ऊरुः -इति मुकुटः । तदपाणिनीयम् । ऊर्वति । ‘ऊर्वी हिंसायाम्’ (भ्वा० प० से०) - इति स्वामी । तदपि न । उप्रत्ययवलोपयोर्विधायकाभावाच्च । ‘ऊर्णोतेर्नुलोपश्च’ (उ० १.३०) इत्यस्य ‘सत्त्वाच्च’ ॥