गुधम्

सुधाव्याख्या

ग्विति । गोदते । ‘गुद क्रीडायाम्’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ।- गुद्यति इति मुकुटस्य प्रमादः । यद्वा गूयतेऽनेन ‘गु पुरीषोत्सर्गे’ (तु० प० अ०) । गवते । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) वा । ‘अब्दादयश्च’ (उ० ४.९८) इति साधु । -‘गुदादयः’ -इति मुकुटस्त्वपाणिनीयत्वादुपेक्ष्यः ॥