वस्तिः

सुधाव्याख्या

वेति । वसति मूत्रमत्र । यद्वा वस्ते, वस्यते, वा । ‘वस निवासे’ (भ्वा० प० अ०) । ‘वस आच्छादने’ वा । (अ० आ० से०) । ‘वसेस्तिः’ (उ० ४.१८०) - ‘दृवसिभ्यां क्तिन्-’ इति मुकुटस्त्वपाणिनीयः । ‘मूत्राशयपुटे वस्तिः’ इति रत्नमाला ॥