वङ्क्षणः

सुधाव्याख्या

तदिति । तस्य ऊरोः । वाङ्क्षति, वाङ्क्ष्यते, वा । ‘वाक्षि काङ्क्षायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११३) । बाहुलकाद्धातोर्ह्रस्वः । वङ्क्षते । वङ्क्षणः इति स्वामी । यद्वा वक्षति । ‘वक्ष रोषसंहत्योः’ (भ्वा० प० से०) । ल्युट् (३.३.११३) । ‘आच्छीनद्योर्नुम्’ (७.१.८०) इत्यत्र ‘नुम्' इति योगविभागान्नुम् ॥


प्रक्रिया

धातुः -


वाक्षिँ काङ्क्षायाम्
वाक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वक्ष् - बाहुलकात् ।
वन्क्ष् - इदितो नुम् धातोः 7.1.58
वंक्ष् - नश्चापदान्तस्य झलि 8.3.24
वङ्क्ष् - अनुस्वारस्य ययि परसवर्णः 8.4.58
वङ्क्ष् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113
वङ्क्ष् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वङ्क्ष् + अन - युवोरनाकौ 7.1.1
वङ्क्षण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
वङ्क्षण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वङ्क्षण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वङ्क्षण + रु - ससजुषो रुः 8.2.66
वङ्क्षण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वङ्क्षणः - खरवसानयोर्विसर्जनीयः 8.3.15