अमरकोशः


श्लोकः

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरध: । जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घुटिका घुटिका स्त्रीलिङ्गः घोटतेऽनया । क्वुन् उणादिः आकारान्तः
2 गुल्फ गुल्फः पुंलिङ्गः, नपुंसकलिङ्गः गलति, गल्यते वा । फक् उणादिः अकारान्तः
3 पार्ष्णि पार्ष्णिः पुंलिङ्गः पृष्यते अनेन वा । णि उणादिः इकारान्तः
4 जङ्घा जङ्घा स्त्रीलिङ्गः जायते । अच् उणादिः आकारान्तः
5 प्रसृत प्रसृतः स्त्रीलिङ्गः प्रसरति स्म, प्रस्रियते स्म, वा । क्त कृत् अकारान्तः
6 जानु जानुः पुंलिङ्गः, नपुंसकलिङ्गः जायते । ञुण् उणादिः उकारान्तः
7 ऊरूपर्वन् ऊरूपर्वन् पुंलिङ्गः, नपुंसकलिङ्गः ऊरोः पर्व ॥ उणादिः नकारान्तः
8 अष्ठीवन् ष्ठीवान् पुंलिङ्गः, नपुंसकलिङ्गः अतिशयितमस्थि यस्मिन् । मतुप् तद्धितः नकारान्तः