जानुः

सुधाव्याख्या

जान्विति । जायते । ‘दृसनिजनिचरि-’ (उ० १.३) इति ञुण् । ‘जनिवध्योश्च’ (७.३.३५) इति न प्रवर्तते । अनुबन्धद्वयसामर्थ्यात् । जानुरर्धर्चादिः (२.४.३१) । ‘अस्त्रियाम्’ इति त्रिभिः सम्बध्यते । (समस्तत्वात्) ॥