पार्ष्णिः

सुधाव्याख्या

पुमेति । तयोर्गुल्फयोरधः । पृष्यते अनेन वा । ‘पृषु सेचने’ (भ्वा० प० से०) । ‘घृणिपृश्निपार्ष्णि-’ (उ० ४.५२) इति साधुः । –‘पार्ष्ण्यादयश्च’ इति त्वपाणिनीयम् । ‘पार्ष्णिः स्त्रीपुंसयोः’ पादमूले स्याद् ध्वजिनीकटौ’ इति रन्तिदेवः ॥