जङ्घा

सुधाव्याख्या

जेति । जायते । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘अच् तस्य जङ्घ च’ (उ० ५.३१) । यद्वा जङ्घन्यते कुटिलं गच्छति । हन्तेर्यङ्लुगन्तात् ‘अन्येभ्योऽपि’ (वा० ३.१०१) इति डः ॥