अमरकोशः


श्लोकः

बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरध: । मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बाहुमूल बाहुमूलम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
2 कक्ष कक्षः पुंलिङ्गः कष्यते । उणादिः अकारान्तः
3 पार्श्व पार्श्वः पुंलिङ्गः, नपुंसकलिङ्गः स्पृश्यते । श्वण् उणादिः अकारान्तः
4 मध्यम मध्यमः पुंलिङ्गः, नपुंसकलिङ्गः मध्ये भवम् । तद्धितः अकारान्तः
5 अवलग्न अवलग्नः पुंलिङ्गः, नपुंसकलिङ्गः लग्यते स्म । निपातनात् अकारान्तः
6 मध्य मध्यः पुंलिङ्गः, नपुंसकलिङ्गः मध्ये शरीरस्य भवम् । तद्धितः अकारान्तः